सामग्री पर जाएँ

यावत्

विकिशब्दकोशः तः
१३:५५, १९ मार्च् २०१६ पर्यन्तं Sanskritnlpbot (सम्भाषणम् | योगदानानि) (अर्थनिवेशः) द्वारा जातानां परिवर्तनानाम् आवलिः


यन्त्रोपारोपितकोशांशः

कल्पद्रुमः

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यावत्, व्य, (यद् + डावतुः ।) साकल्यम् । अवधिः । मानम् । अवधारणम् । इत्यमरः । ३ । ३ । २४५ ॥ “साकल्ये निरवशेषे । यथा । यावद्दत्तं तावद्भुङ्क्ते ॥ अवधौ मर्य्यादायाम् । मूलात् शाखां यावत् प्रकाण्डः ॥ मानं प्रमा- णम् । यावद्गृहाणि तावद्भिक्षवः ॥ अवधारण- मियत्तापरिच्छेदः । इयतो भाव इयत्ता परि- माणं तस्य परिच्छेदो निश्चयः । यथा यावत् पात्रं तावद्ब्राह्मणानामन्त्रयस्व । यावत् कार्त्स्ने- ऽवधारणे प्रशंसायां परिच्छेदे मानाधिकार- सम्भ्रमे पक्षान्तरे चेति मेदिनी ।” इति भरतः ॥ (यत्परिमाणमस्य इत्यर्थे । यत् + “यत्तदेतेभ्यः परिमाणे वतुप् ।” ५ । २ । ३९ । इति वतुप् । “आसर्व्वनाम्नः ।” ६ । ३ । ९१ । इत्यात्वम् ।) यत्परिमिते, त्रि । तत्र यावान् यावती यावत् इति रूपत्रयं भवति । यच्छब्दात् निपातनाद्वतु- प्रत्ययनिष्पन्नः । इति तद्धितपादे वोपदेवः ॥ (यथा, भागवते । २ । ९ । ३१ । “यावानहं यथा भावो यद्रूपगुणकर्म्मकः । तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥” यथाच मनुः । ८ । १५५ । “यावती सम्भवेद्दृयद्धस्तावतीं दातुमर्हसि ॥” तथाच याज्ञवल्क्यः । २ । २६४ । “यावत् शस्यं विनश्येत्तु तावत् स्यात् क्षेत्रिणः फलम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=यावत्&oldid=79651" इत्यस्माद् प्रतिप्राप्तम्